नमस्कार दोस्तों DoStudyOnline पर आपका स्वागत है आज के इस आर्टिकल के जरिये आप छत्तीसगढ़ पर संस्‍कृत भाषा मे निबंध (Essay on Chhattisgarh In Sanskrit Language) देखेंगे

जो आपकी परीक्षा में आपकी काफी मदद करने वाला हैं तो चलिए जानते है छत्तीसगढ़ के बारे में कुछ जानकारी और संस्कृत में निबंध

छत्तीसगढ़ प्रदेश के बारे में कुछ महत्वपूर्ण जानकारी

  • छत्तीसगढ़ भारत के 29 राज्यों में से एक है जो देश के मध्य-पूर्व में स्थित है।
  • यह 135,191 किमी 2 (52,198 वर्ग मील) के क्षेत्रफल के साथ भारत का दसवां सबसे बड़ा राज्य है।
  • 25.5 मिलियन आबादी के साथ, छत्तीसगढ़ देश का 17 वां सबसे अधिक आबादी वाला राज्य है।
  • एक संसाधन संपन्न राज्य, यह देश के लिए बिजली और इस्पात का स्रोत है, जो कुल स्टील का 15% उत्पादन करता है।
  • छत्तीसगढ़ भारत के सबसे तेज़ विकासशील राज्यों में से एक है।

छत्तीसगढ़ पर संस्‍कृत भाषा मे निबंध

भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढ प्रदेशः विराजते। छत्तीसगढप्रदेशस्य प्रमुखनदी महानदी अस्ति।

सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढप्रदेशस्य पवित्रतमा नदी अस्ति। यस्याः सहायक नदीषु शिवनाथ, हसदो, ईब, पैरी, जोंक, केलो, उदन्ती प्रभृतयः नद्यः अनवरतं छत्तीसगढप्रदेशस्य भूमिमुर्वरां विदधति।

दक्षिणे गोदावरी नदी प्रवहति। यस्याः सहायिका इन्द्रावती नदी बस्तर मण्डलान्तर्गतं पश्चिम दिशायां प्रवहति। छत्तीसगढप्रदेशस्य राजधानी रायपुरनगरम् अस्ति।

छत्तीसगढप्रदेशः 2000 तमे खीस्ताब्दे नवम्बर मासस्य प्रथम दिनाङ्के सुघटितः। प्रदेशस्य राजिमनगरं महत्वपूर्ण धार्मिकस्थलम् अभिधीयते। यत्र महानदीपैरी-सोढूर प्रभृतीनां त्रिसृणां नदीनां संगम स्थली छत्तीसगढ़ प्रदेशस्य गङ्गा इति उच्यते। ऐतिहासिकस्थलं सिरपुरम्सो मवंशीयराजानां राजधानी आसीत्।

तत्र आनन्दपुरी बिहारभग्नः बौद्धविहार: चापि सन्ति। प्रदेशस्य कवर्धाक्षेत्रे भोरमदेवः छत्तीसगढप्रदेशस्य खजुराहो नाम्ना विख्यातः। छत्तीसगढप्रदेशस्य राजस्व-सम्भागः बिलासपुरमस्ति। बिलासपुर मण्डलान्तर्गतं रतनपुरम् इति ऐतिहासिकस्थलमस्ति। पुरा कलचुरिराजानां राजधानी आसीत्।

तत्र महामाया मन्दिरं सुविख्यातम्। सरगुजा-जिलान्तर्गतं रामगढक्षेत्रस्य पहाड़ी स्थानं महाकवि कालिदासस्य मेघदूतकाव्यस्य रचनास्थली अभिधीयते। दन्तेवाड़ाजिलायां दन्तेवाड़ा दन्तेश्वरी देव्याः इति नाम्ना प्रसिद्धा।

अस्मिन् प्रदेशे प्रभूतमन्नमुत्पन्नं भवति। अतः छत्तीसगढप्रदेश: धान का कटोरा इति उच्यते। छत्तीसगढप्रदेशः अरण्यानां प्रदेशोऽपि अस्ति।

वनेभ्यः वयं काष्ठानि-फलानि औषधयः च प्राप्नुमः। वनेषु खगाः मृगाः व्याघ्राः च निवसन्ति। अस्मिन् प्रदेशे बारनवापारा सीतानदी अभ्यारण्य, मैत्रीउद्यानं च ख्यातिलब्धानि उद्यानानि सन्ति। प्रदेशस्य बस्तरक्षेत्रे आदिवासिजनानां बाहुल्यं लक्ष्यते। ते जनाः वनेषु निर्भयं भूत्वा विचरन्ति।

साम्प्रतं शासनम् एषाम् उन्नत्यै बहुयतता प्रदेशस्य देवभोग: मैनपुरं च रत्नानां खनिभूमिः। इस्पात नगरी भिलाई लौहादयः खनिजाः उद्योगानां कृते आधारभूताः। एवं राष्ट्र जीवने छत्तीसगढप्रदेशः प्रियतरः। जयतु जयतु छत्तीसगढप्रदेशः।

फलों के नाम संस्कृत में

फूलों के नाम संस्कृत में

जानवरो के नाम संस्कृत में

शरीर के अंगो के नाम संस्कृत में

पक्षियों के नाम संस्कृत में